वांछित मन्त्र चुनें

यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति। मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥

अंग्रेज़ी लिप्यंतरण

yat te gātrād agninā pacyamānād abhi śūlaṁ nihatasyāvadhāvati | mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu ||

मन्त्र उच्चारण
पद पाठ

यत्। ते॒। गात्रा॑त्। अ॒ग्निना॑। प॒च्यमा॑नात्। अ॒भि। शूल॑म्। निऽह॑तस्य। अ॒व॒ऽधाव॑ति। मा। तत्। भूम्या॑म्। आ। श्रि॒ष॒त्। मा। तृणे॑षु। दे॒वेभ्यः॑। तत्। उ॒शत्ऽभ्यः॑। रा॒तम्। अ॒स्तु॒ ॥ १.१६२.११

ऋग्वेद » मण्डल:1» सूक्त:162» मन्त्र:11 | अष्टक:2» अध्याय:3» वर्ग:9» मन्त्र:1 | मण्डल:1» अनुवाक:22» मन्त्र:11


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ।

पदार्थान्वयभाषाः - हे विद्वान् ! (निहतस्य) निरन्तर चलायमान हुए (ते) तुम्हारे (अग्निना) क्रोधाग्नि से (पच्यमानात्) तपाये हुए (गात्रात्) हाथ से (यत्) जो शस्त्र (अभि, शूलम्) लखके शूल के समान पीड़ाकारक शत्रु के सम्मुख (अव, धावति) चलाया जाता है (तत्) वह (भूम्याम्) भूमि में (मा, आ, श्रिषत्) न गिरे वा लगे और वह (तृणेषु) घासादि में (मा) मत आश्रित हो किन्तु (उशद्भ्यः) आपके पदार्थों की चाहना करनेवाले (देवेभ्यः) दिव्य गुणी शत्रु के लिये (रातम्) दिया (अस्तु) हो ॥ ११ ॥
भावार्थभाषाः - बलिष्ठ विद्वान् मनुष्यो को चाहिये कि संग्राम में शस्त्र चलाने के समय विचारपूर्वक ही शस्त्र चलावें, जिससे क्रोधपूर्वक चला शस्त्र भूमि आदि में न पड़े किन्तु शत्रुओं को ही मारनेवाला हो ॥ ११ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ।

अन्वय:

हे विद्वन्निहतस्य ते तवाग्निना पच्यमानाद्गात्राद्यदभिशूलमवधावति तद्भूम्यां माऽऽश्रिषत्तत्तृणेषु माऽऽश्लिष्येत्किन्तूशद्भ्यो देवेभ्यो रातं स्याद्दत्तमस्तु ॥ ११ ॥

पदार्थान्वयभाषाः - (यत्) शस्त्रम् (ते) तव (गात्रात्) हस्तात् (अग्निना) क्रोधरूपेण (पच्यमानात्) (अभि) अभिलक्ष्य (शूलम्) शूलमिव पीडाकरं शत्रुम् (निहतस्य) नितरां चलितस्य (अवधावति) निपतति (मा) (तत्) (भूम्याम्) (आ) (श्रिषत्) श्लिष्येत्। अत्राडभावो वर्णव्यत्ययेन लस्य स्थाने रेफादेशश्च। (मा) (तृणेषु) तृणादिषु (देवेभ्यः) दिव्येभ्यः शत्रुभ्यः (तत्) (उशद्भ्यः) त्वत्पदार्थान् कामयमानेभ्यः (रातम्) दत्तम् (अस्तु) ॥ ११ ॥
भावार्थभाषाः - विद्वद्भिर्बलिष्ठैः संग्रामे शस्त्रचालनावसरे विचारेणैव शस्त्रं प्रक्षेपणीयं येन क्रोधान्निर्गतं शस्त्रं भूभ्यादौ न निपतेत्किन्तु शत्रुष्वेव कृतकारि स्यादिति ॥ ११ ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - बलवान विद्वान माणसांनी लढाईत शस्त्र चालविताना त्यांनी विचारपूर्वकच शस्त्र चालवावे. ज्यामुळे क्रोधाने चालविलेले शस्त्र भूमीवर पडता कामा नये, तर शत्रूंनाच मारणारे असावे. ॥ ११ ॥